मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् ५

संहिता

आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु ।
गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥

पदपाठः

आ । ते॒ । सि॒ञ्चा॒मि॒ । कु॒क्ष्योः । अनु॑ । गात्रा॑ । वि । धा॒व॒तु॒ ।
गृ॒भा॒य । जि॒ह्वया॑ । मधु॑ ॥

सायणभाष्यम्

हे इन्द्र ते तव कुक्ष्योरुदरयोः आसिञ्चामि सोमानवनयामि कुक्षी सोमेन पूरयामीत्यर्थः । इन्द्रस्यहि द्वे उदरे । तथाचश्रूयते-ओभाकुक्षीपृणता वार्त्रघ्नं च माघोनंचेति । यद्वा एकस्यैवोदरस्य सव्यदक्षिणभेदेन ऊर्ध्वाधोभागभेदेनवा द्वित्वम् सचासिक्तः सोमः गात्रा गात्राणि शरीरावयवानि हस्तपादादीनि सर्वाण्यनुक्रमेण विधावतु व्याप्नोतु त्वञ्च मधु मधुरं मयासिच्यमानं सोमं जिह्वया रसनेन्द्रियेण गृभाय गृहाण । छन्दसि शायजपी- ति ग्रहउत्तरस्यश्नः शायजादेशः हृग्रहोर्भइति भत्वम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२