मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् ६

संहिता

स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३॒॑ तव॑ ।
सोम॒ः शम॑स्तु ते हृ॒दे ॥

पदपाठः

स्वा॒दुः । ते॒ । अ॒स्तु॒ । स॒म्ऽसुदे॑ । मधु॑ऽमान् । त॒न्वे॑ । तव॑ ।
सोमः॑ । शम् । अ॒स्तु॒ । ते॒ । हृ॒दे ॥

सायणभाष्यम्

संसुदे सम्यक् सुष्ठु दात्रे हे इन्द्र ते तुभ्यं मधुमान् माधुर्यवानयं सोमः स्वादुरस्तु रुचिकरोभवतु तव तन्वे शरीराय च स्वादुरस्तु । ते तव हृदे हृदयायच ससोमः शमस्तु सुखजनकं भवतु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३