मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् ८

संहिता

तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑ ।
इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥

पदपाठः

तु॒वि॒ऽग्रीवः॑ । व॒पाऽउ॑दरः । सु॒ऽबा॒हुः । अन्ध॑सः । मदे॑ ।
इन्द्रः॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥

सायणभाष्यम्

तुविग्रीवः विस्तीर्णकंधरः वपोदरः पीवरोदरः यथा बहवः सोमाः पीता अन्तर्भवन्ति तथा विस्तृतउदरइत्यर्थः सुबाहुः शोभनबाहुः एवंगुणक- इन्द्रः अंधसोन्नस्य सोमात्मकस्य मदे हर्षेसति वृत्राणि शत्रुजातानि जिघ्नते हिनस्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३