मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् ९

संहिता

इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।
वृ॒त्राणि॑ वृत्रहञ्जहि ॥

पदपाठः

इन्द्र॑ । प्र । इ॒हि॒ । पु॒रः । त्वम् । विश्व॑स्य । ईशा॑नः । ओज॑सा ।
वृ॒त्राणि॑ । वृ॒त्र॒ऽह॒न् । ज॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र ओजसा बलेन विश्वस्य सर्वस्य जगतः ईशानः स्वामी भवन् त्वं पुरः अस्माकं पुरस्तात्प्रेहि प्रगच्छ प्रामुहि । हे वृत्रहन् वृत्राणामावर- काणां शत्रूणां हन्तः वृत्राणि अस्मदीयानि शत्रुजातानि जहि विनाशय ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३