दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि ।
यज॑मानाय सुन्व॒ते ॥
दी॒र्घः । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒शः । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि ।
यज॑मानाय । सु॒न्व॒ते ॥
हे इन्द्र ते तव अंकुशः सृणिः आकर्षणसाधनमायुधं दीर्घोस्तु आयतोभवतु । यथा दूरस्थमपि वस्तुव्याप्नोति तथा आयामवान्भवत्वित्यर्थः येनां- कुशेन सुन्वते सोमाभिषवं कुर्वते यजमानाय ःःःह्ह्ह् वसु धनमाहृत्य प्रयच्छसि ददासि ॥ १० ॥