शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।
आख॑ण्डल॒ प्र हू॑यसे ॥
शाचि॑गो॒ इति॒ शाचि॑ऽगो । शाचि॑ऽपूजन । अ॒यम् । रणा॑य । ते॒ । सु॒तः ।
आख॑ण्डल । प्र । हू॒य॒से॒ ॥
हे शाचिगो शाचयः शक्तागावोयस्यासौ शाचिगुः । यद्वा शच व्यक्तायां वाचि अस्मादौणादिकइड्.प्रत्ययः शाचयोव्यक्ताः प्रख्याता गावोरश्म- योगावएववा यस्यतादृश । हे शाचिपूजन पूज्यते॓ऽ नेनेति पूजनं स्तोत्रादि प्रख्यातपूजन ते तव रणाय रमणाय सुखजननाय अयं सोमः सुतोभि- षुतः । यतः कारणात् हे आखंडल शत्रूणामाखंडयितः प्रहूयसे प्रकृष्टाभिः स्तुतिभिराहूयसे अतः आगत्य इमं सोमं पिबेति भावः ॥ १२ ॥