मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् १४

संहिता

वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना॑म् ।
द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑ ॥

पदपाठः

वास्तोः॑ । प॒ते॒ । ध्रु॒वा । स्थूणा॑ । अंस॑त्रम् । सो॒म्याना॑म् ।
द्र॒प्सः । भे॒त्ता । पु॒राम् । शश्व॑तीनाम् । इन्द्रः॑ । मुनी॑नाम् । सखा॑ ॥

सायणभाष्यम्

हे वास्तोष्पते गृहपते स्थूणा गृहाधारभूतस्तंभः ध्रुवा स्थिरा भवतु सोम्यानां सोमार्हाणां सोमसंपादिनां वास्माकं अंसत्रं अंसत्राणं अंसोपलक्षि- तस्य कृत्स्नशरीरस्य त्रायकं रक्षकं बलं भव तु । अपिच द्रप्सः द्रवणशीलः सोमः तद्वान् अर्शआदित्वादच्प्रत्ययः शश्वतीनां बह्वीनां पुरामसुरपुरीणां भेत्ता विदारयिता एवंभूतइन्द्रोमुनीनामृषीणामस्माकं सखा मित्रभूतोभवतु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४