मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् ३

संहिता

तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ॥

पदपाठः

तत् । सु । नः॒ । स॒वि॒ता । भगः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । यत् । ईम॑हे ॥

सायणभाष्यम्

सवित्रादयश्चत्वारोदेवाः सप्रथः सर्वतः पृथु विस्तीर्णं तच्छर्म सुखं गृहं वा नोस्मभ्यं सु सुष्ठु यच्छंतु ददतु । यच्छर्म ईमहे वयं याचामहे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५