मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् ४

संहिता

दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि ।
स्मत्सू॒रिभि॑ः पुरुप्रिये सु॒शर्म॑भिः ॥

पदपाठः

दे॒वेभिः॑ । दे॒वि॒ । अ॒दि॒ते॒ । अरि॑ष्टऽभर्मन् । आ । ग॒हि॒ ।
स्मत् । सू॒रिऽभिः॑ । पु॒रु॒ऽप्रि॒ये॒ । सु॒शर्म॑ऽभिः ॥

सायणभाष्यम्

हे देवि दानादिगुणयुक्ते हे अरिष्टभर्मन् अहिंसितभरणे हे पुरुप्रिये बहुभिः प्रीयमाणे हे एवंगुणविशिष्टे अदिते सूरिभिः प्राज्ञैः सुशर्मभिः सुसुखैः देवेभिःदेवैः आत्मीयैः पुत्रैः सार्धं स्मदितिनिपातः शोभनार्थः स्मत् शोभनं यथा भवति तथा आगहि आगच्छ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५