मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् ५

संहिता

ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे ।
अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ॥

पदपाठः

ते । हि । पु॒त्रासः॑ । अदि॑तेः । वि॒दुः । द्वेषां॑सि । योत॑वे ।
अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः । अ॒ने॒हसः॑ ॥

सायणभाष्यम्

अदितेः पुत्रासः पुत्राः तेहि ते खलु मित्रादयोदेवाः द्वेषांसि द्वेष्टणि राक्षसादीनि योतवे पृथक्कर्तुं विदुः जानन्ति विदोलटोवेति विदउत्तरस्यझेरु- सादेशः । तथा उरुचक्रयः विस्तीर्णस्य कमर्णः कर्तारोनेहसः अनाहंतारो रक्षकास्ते अंहोश्चित् आहननशीलात्पापादपि योतवे पृथक्कर्तुमस्मान् जानन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५