मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् ८

संहिता

उ॒त त्या दैव्या॑ भि॒षजा॒ शं नः॑ करतो अ॒श्विना॑ ।
यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिधः॑ ॥

पदपाठः

उ॒त । त्या । दैव्या॑ । भि॒षजा॑ । शम् । नः॒ । क॒र॒तः॒ । अ॒श्विना॑ ।
यु॒यु॒याता॑म् । इ॒तः । रपः॑ । अप॑ । स्रिधः॑ ॥

सायणभाष्यम्

उतापिच त्या तौ प्रसिद्धौ दैव्या देवेषुभवौ भिषजा चिकित्सकौ ईदृशावश्विना अश्विनौ नोस्माकं शं सुखं रोगाणां शमनं वा करतः कुरुताम् । इतोस्मत्तः रपः पापं युयुयातां पृथक्कुर्यातां स्निधः शत्रूंश्चापगमयताम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६