मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् ९

संहिता

शम॒ग्निर॒ग्निभि॑ः कर॒च्छं न॑स्तपतु॒ सूर्य॑ः ।
शं वातो॑ वात्वर॒पा अप॒ स्रिधः॑ ॥

पदपाठः

शम् । अ॒ग्निः । अ॒ग्निऽभिः॑ । क॒र॒त् । शम् । नः॒ । त॒प॒तु॒ । सूर्यः॑ ।
शम् । वातः॑ । वा॒तु॒ । अ॒र॒पाः । अप॑ । स्रिधः॑ ॥

सायणभाष्यम्

अग्निमिः स्वविभूत्या विभिन्नैर्गार्हपत्यादिभिः अग्निर्देवः शं करत् अस्माकं रोगशांतिं सुखंवा करोतु । सूर्यः सर्वस्य प्रेरकआदित्यश्च नोस्माकं शंसुखं यथाभवति तथा तपतु प्रदीप्यताम् । वातोवायुश्च अरपाः अपापः सन् शं यथा भवति तथा वातु अनुवर्तताम् । स्निधः शत्रूंश्च एतेग्न्यादयः अपगमयन्तु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६