मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् ११

संहिता

यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् ।
ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ॥

पदपाठः

यु॒योत॑ । शरु॑म् । अ॒स्मत् । आ । आदि॑त्यासः । उ॒त । अम॑तिम् ।
ऋध॑क् । द्वेषः॑ । कृ॒णु॒त॒ । वि॒श्व॒ऽवे॒द॒सः॒ ॥

सायणभाष्यम्

हे आदित्यासः आदित्याः शरुं हिंसकं अस्मदा अस्मत्तश्च युयोत पृथक्कुरुत । उतापिच अमतिं दुर्बुद्धिंच पृथक्कुरुत हे विश्ववेदसः सर्वधनाः सर्वज्ञावा द्वेषोद्वेष्टृन् शत्रून् ऋधक् पृथकूकृणुत कुरुत अस्मत्तोवियोजयत ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७