मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १२

संहिता

तत्सु न॒ः शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति ।
एन॑स्वन्तं चि॒देन॑सः सुदानवः ॥

पदपाठः

तत् । सु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । आदि॑त्याः । यत् । मुमो॑चति ।
एन॑स्वन्तम् । चि॒त् । एन॑सः । सु॒ऽदा॒न॒वः॒ ॥

सायणभाष्यम्

हे आदित्याः तच्छर्म सुखं नोस्मभ्यं सु सुष्ठु यच्छत दत्त । हे सुदानवः शोभनदानाः युष्मदीयं यच्छर्म एनस्वंतं चित् पापिनमपि स्तोतारं एनसः पापत् मुमोचति मोचयति तद्यच्छतेत्यन्वयः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७