मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १४

संहिता

समित्तम॒घम॑श्नवद्दु॒ःशंसं॒ मर्त्यं॑ रि॒पुम् ।
यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥

पदपाठः

सम् । इत् । तम् । अ॒घम् । अ॒श्न॒व॒त् । दुः॒ऽशंस॑म् । मर्त्य॑म् । रि॒पुम् ।
यः । अ॒स्म॒ऽत्रा । दुः॒ऽहना॑वान् । उप॑ । द्व॒युः ॥

सायणभाष्यम्

दुःशंसं दुष्कीर्ति रिपुं शत्रुं तं मर्त्थं मनुष्यं इत् एवमघं पापं समश्र्नवत् सम्यग्व्याप्नोतु । योमर्त्यः अस्मत्रा अस्मासु अस्मद्विषये दुर्हणावान् दुष्टहन- नवानुपजायते द्वयुः द्वाभ्यां प्रकाराभ्यां युक्तश्च भवति । अयमर्थः-प्रत्यक्षकृतोहितं वदति परोक्षकृतोहितं वदति परोक्षकृतस्त्वहितं तादृशः कपटो- द्वयुरित्युच्यते यश्चास्मद्विषये कपटोभवति तमपि पापं व्याप्नोत्विति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७