मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १५

संहिता

पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म् ।
उप॑ द्व॒युं चाद्व॑युं च वसवः ॥

पदपाठः

पा॒क॒ऽत्रा । स्थ॒न॒ । दे॒वाः॒ । हृ॒त्ऽसु । जा॒नी॒थ॒ । मर्त्य॑म् ।
उप॑ । द्व॒युम् । च॒ । अद्व॑युम् । च॒ । व॒स॒वः॒ ॥

सायणभाष्यम्

हे देवा दानादिगुणयुक्ता आदित्यायूयं पाकत्रा पाकेषु विपक्कप्रज्ञेषु स्तोतृषु स्थन भवथ । यद्वा प्रथमार्थेत्राप्रत्ययः पाकत्राः पाकाः परिपक्कज्ञानाः भवथ । यतएवं अतः कारणात् हृत्सु आत्मीयेषु हृदयेषु द्वयुं द्विप्रकारयुक्तं कपटिनं च अद्वयुं च तद्विलक्षणं कापटचरहितं च मर्त्थं मनुष्यं उपेत्य हे वसवोवासका जानिथ अवगच्छथ ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७