मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १६

संहिता

आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे ।
द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥

पदपाठः

आ । शर्म॑ । पर्व॑तानाम् । आ । उ॒त । अ॒पाम् । वृ॒णी॒म॒हे॒ ।
द्यावा॑क्षामा । आ॒रे । अ॒स्मत् । रपः॑ । कृ॒त॒म् ॥

सायणभाष्यम्

पर्वतानां मेघानां गिरीणां वा संबंधि शर्म सुखं वयं आवृणीमहे आभिमुख्येन संभजामहे । उतापिच अपामुदकानां च हे द्यावाक्षामा द्यावा- पृथिव्यौ अस्मदारे अस्मत्तोविप्रकृष्टेदेशे रपः पापं कृतं कुरुतं अस्मत्तोवियोजयतमित्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८