मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १७

संहिता

ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः ।
अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥

पदपाठः

ते । नः॒ । भ॒द्रेण॑ । शर्म॑णा । यु॒ष्माक॑म् । ना॒वा । व॒स॒वः॒ ।
अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । पि॒प॒र्त॒न॒ ॥

सायणभाष्यम्

हे वसवोवसयितारआदित्याः तेपूर्वोक्तगुणा यूयं भद्रेण शोभनेन शर्मणासुखेन युष्माकं नावा नोस्मान् विश्वानि सर्वाणि दुरिता दुर्गमनानि अति पिपर्तन पिपृत अतिपारयत ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८