मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् २०

संहिता

बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ ।
मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥

पदपाठः

बृ॒हत् । वरू॑थम् । म॒रुता॑म् । दे॒वम् । त्रा॒तार॑म् । अ॒श्विना॑ ।
मि॒त्रम् । ई॒म॒हे॒ । वरु॑णम् । स्व॒स्तये॑ ॥

सायणभाष्यम्

मरुतां देवानां स्वामिनां त्रातारं पालयितारं देवमिन्द्रं अश्विना अश्विनौ च मित्रं वरुणं च बृहत्प्रौढं वरूथं शीतातपादिनिवारकं गृहं स्वस्तये अविनाशाय ईमहे याचामहे ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८