मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २

संहिता

विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् ।
अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥

पदपाठः

विभू॑तऽरातिम् । वि॒प्र॒ । चि॒त्रऽशो॑चिषम् । अ॒ग्निम् । ई॒ळि॒ष्व॒ । य॒न्तुर॑म् ।
अ॒स्य । मेध॑स्य । सो॒म्यस्य॑ । सो॒भ॒रे॒ । प्र । ई॒म् । अ॒ध्व॒राय॑ । पूर्व्य॑म् ॥

सायणभाष्यम्

ऋषिरात्मानं संबोध्य स्तुतौ प्रेरयति । हे विप्र मेधाविन् सोभरे एतत्संज्ञऋषे अध्वराय यागाय ईमिममग्निं प्रईळिष्व प्रस्तुहि । कीदृशं विभूत- रातिं व्याप्तधनं प्रभूतदानं वा चित्रशोचिषं चायनीयतेजस्कं विचित्रदीप्तिकं वा सोम्यस्य सोमसाध्यस्य अस्य मेधस्य यज्ञस्य यंतरं नियंतारं पूर्व्यं चिरन्तनम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९