मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३

संहिता

यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥

पदपाठः

यजि॑ष्ठम् । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । दे॒व॒ऽत्रा । होता॑रम् । अम॑र्त्यम् ।
अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥

सायणभाष्यम्

हे अग्ने यजिष्ठं यष्टृतमं त्वा ववृमहे वृणीमहे संभजामहे । कीदृशं त्वां देवत्रा देवेषु मध्ये देवं अतिशयेन दानादिगुणयुक्तं होतारं देवानामाह्वा- तारं अमर्त्यमविनाशं अस्य यज्ञस्य यागस्य सुक्रतुं सुष्ठु कर्तारम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९