मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ४

संहिता

ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् ।
स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥

पदपाठः

ऊ॒र्जः । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । अ॒ग्निम् । श्रेष्ठ॑ऽशोचिषम् ।
सः । नः॒ । मि॒त्रस्य॑ । वरु॑णस्य । सः । अ॒पाम् । आ । सु॒म्नम् । य॒क्ष॒ते॒ । दि॒वि ॥

सायणभाष्यम्

ऊर्जोन्नस्य नपातं नपातयितारं यद्वा नप्तारं चतुर्थम् । हविर्लक्षणेनान्नेन आपोजायन्ते अझश्चोषधिवनस्पतयः तेभ्यएषजातइति चतुर्थत्वम् । नभ्राण्नपादिति नञःप्रकृतिभावः । सुभगं शोभनधनम् सुदीदितिं सुष्ठु दीपयितारं श्रेष्ठशोचिषं प्रशस्यतमतेजस्कं अग्निं स्तौमीतिशेषः । सता- दृशोग्निः नोस्मदर्थं दिवि द्योतमाने देवयजने द्युलोकेवा मेत्रस्य देवस्य वरुणस्यच सुम्नं सुखम् आ अभिलक्ष्य यक्षते यजतु तथा सोग्निरपामब्दे- वतानां सुम्नमभियजतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९