मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ५

संहिता

यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ ।
यो नम॑सा स्वध्व॒रः ॥

पदपाठः

यः । स॒म्ऽइधा॑ । यः । आऽहु॑ती । यः । वेदे॑न । द॒दाश॑ । मर्तः॑ । अ॒ग्नये॑ ।
यः । नम॑सा । सु॒ऽअ॒ध्व॒रः ॥

सायणभाष्यम्

इयं पाकयज्ञप्रशंसापरेति भगवताश्वलायनेन व्याख्याता । योमर्तोमनुष्यः समिधा पालाशादिनेध्मेन अग्नये अग्न्यर्थं ददाश परिचरति यश्च आहुती आहुत्या आज्यादिसाध्यया परिचरति यश्च वेदेन वेदाध्ययनेन ब्रह्मयज्ञेन परिचरति यश्चस्वध्वरः शोभनेनाध्वरेण ज्योतिष्टोमादिना यु- क्तःसन् नमसा अन्नेन चरुपुरोडाशादिना अग्नये ददाशः अग्न्यर्थं परिचरति तस्येदर्वन्तइत्युत्तरत्रसंबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९