मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ७

संहिता

स्व॒ग्नयो॑ वो अ॒ग्निभि॒ः स्याम॑ सूनो सहस ऊर्जां पते ।
सु॒वीर॒स्त्वम॑स्म॒युः ॥

पदपाठः

सु॒ऽअ॒ग्नयः॑ । वः॒ । अ॒ग्निऽभिः॑ । स्याम॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । ऊ॒र्जा॒म् । प॒ते॒ ।
सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥

सायणभाष्यम्

हे सहसःसूनो बलस्यपुत्र अग्निर्हि बलेन मथ्यमानोजायते हे ऊर्जांपते अन्नानां हविर्लक्षणानां स्वामिन् अग्ने वः वचनव्यत्ययः तव अवयवभूतैर- ग्निभिर्गार्हपत्यादिभिर्वयं स्वग्नयः शोभनाग्निकाः स्याम भवेम । सुवीरः शोभनैः वीरैरुपेतस्त्वंच अस्मयुः अस्मान्कामयमानोभव ॥ ७ ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०