मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ९

संहिता

सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्त॑ः सुभग॒ स प्र॒शंस्य॑ः ।
स धी॒भिर॑स्तु॒ सनि॑ता ॥

पदपाठः

सः । अ॒द्धा । दा॒शुऽअ॑ध्वरः । अग्ने॑ । मर्तः॑ । सु॒ऽभ॒ग॒ । सः । प्र॒ऽशंस्यः॑ ।
सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता ॥

सायणभाष्यम्

हे अग्ने योमर्तोमनुष्यः दाश्वध्वरः दत्तयज्ञोभवति सः अद्धा सत्यनामैतत् तत्यफलोभवतु । हे सुभग शोभनधनाग्ने सएव प्रशंस्यः प्रशंसनीयः श्ला- घनीयश्च तथा सधीभिः कर्मभिः स्तोत्रैर्वा सनिता संभजनशीलोस्तु भवतु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०