मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १०

संहिता

यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑र॒ः स सा॑धते ।
सो अर्व॑द्भि॒ः सनि॑ता॒ स वि॑प॒न्युभि॒ः स शूरै॒ः सनि॑ता कृ॒तम् ॥

पदपाठः

यस्य॑ । त्वम् । ऊ॒र्ध्वः । अ॒ध्व॒राय॑ । तिष्ठ॑सि । क्ष॒यत्ऽवी॑रः । सः । सा॒ध॒ते॒ ।
सः । अर्व॑त्ऽभिः । सनि॑ता । सः । वि॒प॒न्युऽभिः॑ । सः । शूरैः॑ । सनि॑ता । कृ॒तम् ॥

सायणभाष्यम्

हे अग्ने यस्य यजमानस्य अध्वराय यागनिष्पादनाय त्वमूर्ध्वउद्युक्तः सन् तिष्ठसि अवतिष्ठसे सयजमानः क्षयद्वीरः निवसद्धिरित्वरैर्वा वीरैः पुत्रादिभिरुपेतः सन् साधते सर्वकर्तव्यं साधयति । तदेव विवृणोति सतादृशोजनः अर्वद्धिरश्वैः कृतं निष्पादितं जयादिकं सतादृशोजनः अर्वद्धि- रश्वैः कृतं निष्पादितं जयादिकं सतादृशोजनः विपन्युभिः मेधाविभिः कृतंच स सनिता भवति शूरैः शौर्योपेतैर्भृत्यैः कृतंच ससनिता संभजनशी- लोभवति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०