मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ११

संहिता

यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः ।
ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥

पदपाठः

यस्य॑ । अ॒ग्निः । वपुः॑ । गृ॒हे । स्तोम॑म् । चनः॑ । दधी॑त । वि॒श्वऽवा॑र्यः ।
ह॒व्या । वा॒ । वेवि॑षत् । विषः॑ ॥

सायणभाष्यम्

यस्य यजमानस्य गृहे विश्ववार्योविश्वैर्वरणीयः वपुः रूपनामैतत् रूपवान् दीप्तिमानग्निः स्तोमं स्तोत्रं चनोन्नंच हविर्लक्षणं दधीत धारयेत् । यस्यच हव्या वाशब्दः समृज्ञ्वये हव्यानि हवींषिच विषः व्याप्तान् देवान् वेविषत् प्रापयेत् विष्लुव्याप्तौ अस्माल्लेटि रूपमेतत् । सयजमानइति पूर्वत्रसंबंधः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१