मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १२

संहिता

विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ ।
अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥

पदपाठः

विप्र॑स्य । वा॒ । स्तु॒व॒तः । स॒ह॒सः॒ । य॒हो॒ इति॑ । म॒क्षुऽत॑मस्य । रा॒तिषु॑ ।
अ॒वःऽदे॑वम् । उ॒परि॑ऽमर्त्यम् । कृ॒धि॒ । वसो॒ इति॑ । वि॒वि॒दुषः॑ । वचः॑ ॥

सायणभाष्यम्

हे सहसोयहो बलस्यपुत्राग्ने विप्रस्य मेधाविनः स्तुवतः स्तोतुर्वा रातिषु हविर्दानेषु मक्षुतमस्य शीघ्रतमस्य यष्टुर्वा विविदुषोज्ञातव्यस्य अभिज्ञस्य वचोवचनं हे वसो वासकाग्ने अवोदेवं देवानामवस्तात् । उपरिमर्त्यं मर्त्यानामुपरिष्टाच्व कृधि कुरु सर्वं नभःप्रदेशं व्यापयेतियावत् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१