मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १३

संहिता

यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति ।
गि॒रा वा॑जि॒रशो॑चिषम् ॥

पदपाठः

यः । अ॒ग्निम् । ह॒व्यदा॑तिऽभिः । नमः॑ऽभिः । वा॒ । सु॒ऽदक्ष॑म् । आ॒ऽविवा॑सति ।
गि॒रा । वा॒ । अ॒जि॒रऽशो॑चिषम् ॥

सायणभाष्यम्

योयजमानः हव्यदातिभिः हविषां दानैर्नमस्कारैर्वा सुदक्षं शोभनबलमग्निं आविवासति परिचरति गिरावा स्तुत्या वा अजिरशोचिषं क्षिप्रगा- मितेजस्कं तमग्निं परिचरति सः समृद्धोभवतीतिशेषः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१