मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १४

संहिता

स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्य॑ः ।
विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥

पदपाठः

स॒म्ऽइधा॑ । यः । निऽशि॑ती । दाश॑त् । अदि॑तिम् । धाम॑ऽभिः । अ॒स्य॒ । मर्त्यः॑ ।
विश्वा॑ । इत् । सः । धी॒भिः । सु॒ऽभगः॑ । जना॑न् । अति॑ । द्यु॒म्नैः । उ॒द्नःऽइ॑व । ता॒रि॒ष॒त् ॥

सायणभाष्यम्

योमर्त्योमनुष्यः अस्याग्नेर्धामभिः शरीरैः गार्हपत्यादिरूपेण विभज्य वर्तमानैः सार्ध अदितिं अखंडनीयं तमेवाग्निं निशिती निशित्या निशान- साधनया प्रज्वलनहेतुभूतया समिधा दाशत् परिचरेत् । सोग्निः धीभिः कर्मभिर्बुद्धिविशेषैर्वा सुभगः सन् विश्वेत् सर्वानेव जनान् द्युम्रैर्द्योतमानैरन्नै- र्यशोभिर्वा उद्गइव उदकानीव अतितारिषत् अतितरेत् अतिक्रामेत् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१