मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १५

संहिता

तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् ।
म॒न्युं जन॑स्य दू॒ढ्य॑ः ॥

पदपाठः

तत् । अ॒ग्ने॒ । द्यु॒म्नम् । आ । भ॒र॒ । यत् । स॒सह॑त् । सद॑ने । कम् । चि॒त् । अ॒त्रिण॑म् ।
म॒न्युम् । जन॑स्य । दुः॒ऽध्यः॑ ॥

सायणभाष्यम्

हे अग्ने तत् द्युम्नं आभरास्मभ्यमाहर यत्सदने गृहे वर्तमानं कंचित्कमपि अत्रिणमत्तारं राक्षसादिकं सासहत् अत्यर्थमभिभवेत् । तथा दूढचः दुर्धियः पापबुद्धेः शत्रुजनस्य मन्युं क्रोधं यज्व द्युम्नमभिभवेत् तदाहरेत्यन्वयः । ध्यैचेति पृषोदरादिपाठात् दुरोरेफस्य उत्वम् र्त्तरपदादेष्टुत्वंच ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१