मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १६

संहिता

येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ ।
व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ॥

पदपाठः

येन॑ । चष्टे॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । येन॑ । नास॑त्या । भगः॑ ।
व॒यम् । तत् । ते॒ । शव॑सा । गा॒तु॒वित्ऽत॑माः । इन्द्र॑त्वाऽऊताः । वि॒धे॒म॒हि॒ ॥

सायणभाष्यम्

येनाग्नेयेन तेजसा वरुणोदेवः चष्टे प्रकाशयति येनच मित्रः अर्यमा च चष्टे येनच नासत्याश्विनौच चक्षाते भगोभजनीयएतत्संज्ञोदेवश्च चष्टे । शवसा बलेन गातुवित्तमाः गातोर्गातव्यस्य स्तोत्रस्य ज्ञातृतमाः । यद्वा गंतव्यस्य प्राप्तव्यस्य लब्धतमाः इन्द्रत्वोताः इन्द्रेण ईश्वरेण त्वया ऊतार- क्षिताः संतोवयं हे अग्ने ते त्वदीयं तव तेजः विधेमहि परिचरेमहि ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२