मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १७

संहिता

ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सम् ।
विप्रा॑सो देव सु॒क्रतु॑म् ॥

पदपाठः

ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । ये । त्वा॒ । वि॒प्र॒ । नि॒ऽद॒धि॒रे । नृ॒ऽचक्ष॑सम् ।
विप्रा॑सः । दे॒व॒ । सु॒ऽक्रतु॑म् ॥

सायणभाष्यम्

हे अग्ने तेघेत् तएवखलु स्वाध्यः शोभनाध्यानाभवन्ति हे विप्र मेधाविन् देवद्योतमानाग्ने ये विप्रासोविप्राः मेधाविनऋत्विजः नृचक्षसं नृणां चेष्टारं सुक्रतुं सुकर्माणं शोभनप्रज्ञं वा त्वा त्वां निदधिरे निदधति यागार्थं गार्हपत्यादिस्थानेषु आधानसंस्कारेण स्थापयन्ति तेघेदित्यन्वयः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२