मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १९

संहिता

भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।
भ॒द्रा उ॒त प्रश॑स्तयः ॥

पदपाठः

भ॒द्रः । नः॒ । अ॒ग्निः । आऽहु॑तः । भ॒द्रा । रा॒तिः । सु॒ऽभ॒ग॒ । भ॒द्रः । अ॒ध्व॒रः ।
भ॒द्राः । उ॒त । प्रऽश॑स्तयः ॥

सायणभाष्यम्

आहुतोहविर्भिस्तर्पितोग्निः नोस्माकं भद्रः कल्याणोभवतु हे सुभग शोभनधनाग्ने भद्रा कल्याणी रातिः दानं चास्मकं भवतु भद्रः कल्याणोध्वरो- यागश्च भवतु उतापिच भद्राः कल्याण्यः प्रशस्तयः प्रशंसाः स्तुतयश्च भवन्तु ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२