मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २०

संहिता

भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ ।
अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥

पदपाठः

भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ । येन॑ । स॒मत्ऽसु॑ । स॒सहः॑ ।
अव॑ । स्थि॒रा । त॒नु॒हि॒ । भूरि॑ । शर्ध॑ताम् । व॒नेम॑ । ते॒ । अ॒भिष्टि॑ऽभिः ॥

सायणभाष्यम्

हे अग्ने वृत्रतूर्ये संग्रामे भद्रं शोभनं मनः कृणष्वास्माकं कुरु । येन मनसा त्वं समत्सु संग्रामेषु सासहः भृशं शत्रूनभिभवसि अपिच शर्धतामभिभ- वतां शत्रूणां भूरि भूरीणि बहूनि स्थिरा स्थिराणि दृढान्यपि अवतनुहि अवांचि कुरु पराजितानि कुर्वित्यर्थः । वयं चाभिष्टिभिरभ्येषणसाधनैर्हवि- विर्भिः स्तोत्रैश्च तेत्वां वनेम संभजेमहि । यद्वा ते तव प्रसादात् अभिष्टिभिरभीष्टैः फलैः वनेम संगच्छेमहि ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२