मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २१

संहिता

ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे ।
यजि॑ष्ठं हव्य॒वाह॑नम् ॥

पदपाठः

ईळे॑ । गि॒रा । मनुः॑ऽहितम् । यम् । दे॒वाः । दू॒तम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे ।
यजि॑ष्ठम् । ह॒व्य॒ऽवाह॑नम् ॥

सायणभाष्यम्

गिरा वाचा स्तुतिरूपया मनुर्हितं मनुना प्रजापतिना यजमानेन आहितं तमग्निं ईळे स्तौमि । कीदृर्श यजिष्ठं यष्टृतमं हव्यवाहनं हविषां वोढारं अरतिं अर्यं ईश्वरं वा दूतं देवानां दूत्येवर्तमानं यमग्निं देवान्येरिरे नितरां प्रेरयन्ति ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३