मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २२

संहिता

ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ ।
यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥

पदपाठः

ति॒ग्मऽज॑म्भाय । तरु॑णाय । राज॑ते । प्रयः॑ । गा॒य॒सि॒ । अ॒ग्नये॑ ।
यः । पिं॒शते॑ । सू॒नृता॑भिः । सु॒ऽवीर्य॑म् । अ॒ग्निः । घृ॒तेभिः॑ । आऽहु॑तः ॥

सायणभाष्यम्

तिग्मजंभाय तीक्ष्णज्वालाय तरुणाय नित्ययूने जरामरणरहिताय राजते राजमानायाग्नये प्रयोहविर्लक्षणमन्नं गायसि हे स्तोतः प्रवृद्धिं प्रयच्छेत्य- र्थः । योग्निः सूनृताभिः प्रियसत्यात्मिकाभिः वाग्भिः स्तुतोघृतेभिर्घृतैराज्यैराहुतोभिहुतश्चसन् सुवीर्यं शोभनवीर्यं पिंशते आश्लेषयति स्तोतृभिः सं- योजयति पिशअवयवे तस्माअग्नयेइत्यन्वयः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३