यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च ।
असु॑र इव नि॒र्णिज॑म् ॥
यदि॑ । घृ॒तेभिः॑ । आऽहु॑तः । वाशी॑म् । अ॒ग्निः । भर॑ते । उत् । च॒ । अव॑ । च॒ ।
असु॑रःऽइव । निः॒ऽनिज॑म् ॥
घृतेभिर्घृतैराहुतोभिहुतोयमग्निः यदि यदा यस्मिन्काले वाशीं वाङ्ममैतत् वाचं शब्दं उज्चऊर्ध्वं च अवच अवाक्च भरते संपाकयति । यद्वा वाशीं वाशनशीलां शब्दकारिणीं ज्वालां उद्धरते उद्धरति उद्गमयत्यूर्ध्वमुखं अवच भरते अवाङ्मुखंच हरत्युपसंहरति । आसुरइव रश्मीनां क्षेप्ता सूर्योय- था निर्णिजं आत्मीयं रूपं उपरितनेषु लोकेषु प्रकाशतयोद्गमयति अधस्तनेषुच अवाङ्मुखं गमयति तद्वत् उज्वनीचभावनयाग्निस्तेजउद्गमयति तं स्तुमइति शेषः ॥ २३ ॥