मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २४

संहिता

यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑ग॒न्धिना॑ ।
विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥

पदपाठः

यः । ह॒व्यानि॑ । ऐर॑यत । मनुः॑ऽहितः । दे॒वः । आ॒सा । सु॒ऽग॒न्धिना॑ ।
विवा॑सते । वार्या॑णि । सु॒ऽअ॒ध्व॒रः । होता॑ । दे॒वः । अम॑र्त्यः ॥

सायणभाष्यम्

योमनुर्हितोमनुना प्रजापतिना आहितोदेवोद्योतमानोग्निः सुगंधिना शोभनगंधयुक्तेन आसा आस्येन हव्यान्यस्मदीयानि हवींषि ऎरयत देवान्प्रति प्रेरयति स्वध्वरः शोभनयज्ञः होता देवानामाह्वाता देवोदीप्यमानः अमर्त्योमरणरहितः सोग्निः वार्याणि वरणीयानि धनानि विवासते परिचरते यजमानाय प्रयच्छतीतिशेषः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३