मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २५

संहिता

यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः ।
सह॑सः सूनवाहुत ॥

पदपाठः

यत् । अ॒ग्ने॒ । मर्त्यः॑ । त्वम् । स्याम् । अ॒हम् । मि॒त्र॒ऽम॒हः॒ । अम॑र्त्यः ।
सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ॥

सायणभाष्यम्

हे सहसः सूनो बलस्यपुत्र आहुत घृतैरभिहुत हे मित्रमहःअनुकूलदीप्तिमन् अग्ने मर्त्योमरणधमर्माहं यद्यदि त्वंस्यां त्वदुपासनया त्वद्रूपमापन्नोभवेयम् । ये यथा यथोपासते ते तदेव भवन्तीतिश्रुतेः । तर्ह्चहं अमर्त्योमरणधर्मरहितोदेवएव भवेयमिति ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३