मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २६

संहिता

न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ सन्त्य ।
न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑त॒ः स्याद॑ग्ने॒ न पा॒पया॑ ॥

पदपाठः

न । त्वा॒ । रा॒सी॒य॒ । अ॒भिऽश॑स्तये । व॒सो॒ इति॑ । न । पा॒प॒ऽत्वाय॑ । स॒न्त्य॒ ।
न । मे॒ । स्तो॒ता । अ॒म॒ति॒ऽवा । न । दुःऽहि॑तः । स्यात् । अ॒ग्ने॒ । न । पा॒पया॑ ॥

सायणभाष्यम्

हे वसो वासकाग्ने त्वा त्वां अभिशस्तये अभिशंसनाय मिथ्यापवादाय हिंसायैच न रासीय नाक्रोशयेयम् । रासृशब्दे हे सन्त्य संभजनीयाग्ने पापव- त्वाय त्वां न रासीय मे मदीयः स्तोताच अनभिमतवचनेन त्वां नाक्रोशयतु अतएव अमतीवा अमतिरशोभनाबुद्धिस्तद्वान् अपिच दुर्हितः शत्रुः हे अग्ने अस्माकं नस्यात् न भवतु अतएव पापया अशोभनया बुद्या सनबाधताम् ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४