मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २७

संहिता

पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥

पदपाठः

पि॒तुः । न । पु॒त्रः । सुऽभृ॑तः । दु॒रो॒णे । आ । दे॒वान् । ए॒तु॒ । प्र । नः॒ । ह॒विः ॥

सायणभाष्यम्

पितुर्न पुत्रः पितुः पुत्रइव अस्माकं सुभृतः सुष्ठु भर्ता । यद्वा पित्रा पुत्रइव अस्माभिः सम्यग्भृतः हविर्भिः पोषितोयमग्निः पुत्रइव अस्माकं सुभृतः दुरोणे यज्ञगृहे देवान् आ अभिलक्ष्य नोस्माकं हविः प्रैतु प्रगमयतु यद्वा । अग्निरैत्वागच्छतु अस्मदीयं हविश्च देवान्प्राप्नोतु ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४