तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो ।
सदा॑ दे॒वस्य॒ मर्त्य॑ः ॥
तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । नेदि॑ष्ठाभिः । स॒चे॒य॒ । जोष॑म् । आ । व॒सो॒ इति॑ ।
सदा॑ । दे॒वस्य॑ । मर्त्यः॑ ॥
हे वसो वासकाग्ने नेदिष्ठाभिरन्तिकतमाभीः ऋजुगामिनीभिर्वा देवस्य तवोतिभीरक्षाभिः मर्त्योमनुष्योहं स्तोता सदा सर्वदा जोषमासचेय प्रीतिमभिसेवेय ॥ २८ ॥