मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् २९

संहिता

तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः ।
त्वामिदा॑हु॒ः प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥

पदपाठः

तव॑ । क्रत्वा॑ । स॒ने॒य॒म् । तव॑ । रा॒तिऽभिः॑ । अग्ने॑ । तव॑ । प्रश॑स्तिऽभिः ।
त्वाम् । इत् । आ॒हुः॒ । प्रऽम॑तिम् । व॒सो॒ इति॑ । मम॑ । अ॒ग्ने॒ । हर्ष॑स्व । दात॑वे ॥

सायणभाष्यम्

हे अग्ने तव क्रत्वा त्वदीयेन परिचरणरूपेण कर्मणा सनेयं त्वां संभजेयम् एतदेवविशदयति तव रातिभिस्त्वदीयैर्हविर्दानैश्च सनेयं तथा तव प्रश- स्तिभिः प्रशंसनैः स्तोत्रैश्च त्वां संभजेयम् अस्यैव संभजने किंकारणं तदाह । हे वसो वासकाग्ने मम स्तोतुः प्रमतिं प्रकृष्टबुद्धिं रक्षकं त्वामित् त्वामेव आहुः ब्रह्मवादिनः कथयन्ति अतः हे अग्ने दातवे दातुं हर्षस्व हृष्टोभव हर्षयुक्तः सन् बहुधनं प्रयच्छेत्यर्थः ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४