मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३०

संहिता

प्र सो अ॑ग्ने॒ तवो॒तिभि॑ः सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।
यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥

पदपाठः

प्र । सः । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ । सु॒ऽवीरा॑भिः । ति॒र॒ते॒ । वाज॑भर्मऽभिः ।
यस्य॑ । त्वम् । स॒ख्यम् । आ॒ऽवरः॑ ॥

सायणभाष्यम्

हे अग्ने तवोतिभीरक्षाभिः सयजमानः प्रतिरते प्रवर्धते । ऊतयोविशेष्यन्ते सुवीराभिः शोभनावीराःपुत्रादयोयासु तास्तथोक्ताःवाजभर्मभिःवाजाना- मन्नानां बलानां वा भर्म भरणं यासु तादृशीभिः हे अग्ने त्वं यस्य यजमानस्य सख्यं सखित्वं मित्रत्वं आवरः अभिवृणोषि सतिरतइत्यन्वयः ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४