मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३१

संहिता

तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे ।
त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥

पदपाठः

तव॑ । द्र॒प्सः । नील॑ऽवान् । वा॒शः । ऋ॒त्वियः॑ । इन्धा॑नः । सि॒ष्णो॒ इति॑ । आ । द॒दे॒ ।
त्वम् । म॒ही॒नाम् । उ॒षसा॑म् । अ॒सि॒ । प्रि॒यः । क्ष॒पः । वस्तु॑षु । रा॒ज॒सि॒ ॥

सायणभाष्यम्

हे सिष्णो सिषिः सेचनार्थः सोमेनासिच्यमानाग्ने द्रप्सोद्रवणशीलः नीलवान् शकटनीडेवस्थानात्तद्वान् वाशः कान्तः शब्दायमानोवा ऋत्वियःऋतौ वसन्तादिकालविशेषे भवः इन्धानः संदीपयन् एवंभूतः तव सोमःआददे तुभ्यं होमायाध्वर्युणा आदीयते । अपिच त्वं महीनां महतीनामुषसां प्रियो- मित्रभूतोसि उषसि हि अग्नयोहोमाय प्रज्वाल्यन्ते । तथा क्षपः क्षपायारात्रेः संबंधिषु वस्तुषु राजसि प्रकाशसे । यद्वा रात्रिसंबंधीनि वस्तूनि पदार्थ- जातानि त्वं प्रकाशयसि ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५