मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३२

संहिता

तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से ।
स॒म्राजं॒ त्रास॑दस्यवम् ॥

पदपाठः

तम् । आ । अ॒ग॒न्म॒ । सोभ॑रयः । स॒हस्र॑ऽमुष्कम् । सु॒ऽअ॒भि॒ष्टिम् । अव॑से ।
स॒म्ऽराज॑न् । त्रास॑दस्यवम् ॥

सायणभाष्यम्

सोभरयः ऋषयोवयं अवसे रक्षणाय तमग्निं आगन्म हविर्भिः स्तुतिभिश्च प्राप्ताअभूम । कीदृशं सहस्त्रमुष्कं मुष्णन्ति तमांस्यपहरन्तीति मुष्कानि तेजांसि बहुतेजस्कं स्वभिष्टिं शोभनाभ्येषणं सम्राजं सम्यग्राजमानं त्रासदस्यवं त्रसदस्युर्नाम राजर्षिः तस्य स्तोतव्यत्वेन संबंधिनम् ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५