मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३३

संहिता

यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व ।
विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥

पदपाठः

यस्य॑ । ते॒ । अ॒ग्ने॒ । अ॒न्ये । अ॒ग्नयः॑ । उ॒प॒ऽक्षितः॑ । व॒याःऽइ॑व ।
विपः॑ । न । द्यु॒म्ना । नि । यु॒वे॒ । जना॑नाम् । तव॑ । क्ष॒त्राणि॑ । व॒र्धय॑न् ॥

सायणभाष्यम्

हे अग्ने यस्य ते तव अन्ये अग्रयः वयाइव वृक्षस्य शाखाइव उपक्षितः समीपे निवसन्तोभवन्ति जनानां जनिमतां मनुष्याणां मध्ये अहं तस्य तव क्षत्राणि बलानि स्तुत्या वर्धयन् विपोन स्तोतृनामैतत् अन्ये स्तोतारइव द्युम्ना द्योतमानानि अन्नानि यशांसि वा नियुवे नितरां प्राप्नोमि त्वत्प्रसा- दाल्लभेयमित्यर्थः ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५