मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३४

संहिता

यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म् ।
म॒घोनां॒ विश्वे॑षां सुदानवः ॥

पदपाठः

यम् । आ॒दि॒त्या॒सः॒ । अ॒द्रु॒हः॒ । पा॒रम् । नय॑थ । मर्त्य॑म् ।
म॒घोना॑म् । विश्वे॑षाम् । सु॒ऽदा॒न॒वः॒ ॥

सायणभाष्यम्

हे अद्रुहः अद्रोग्धारः हे सुदानवः हे आदित्यासः अदितेः पुत्रामित्रादयः मघोनां हविष्मतां विश्वेषां सर्वेषां मध्ये यं मर्त्यं मनुष्यं यजमानं पारं नयथ आरब्धस्य कर्मणः समाप्तिं प्रापयथ सतत्फलं लभतइत्यर्थः ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५