मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३५

संहिता

यू॒यं रा॑जान॒ः कं चि॑च्चर्षणीसह॒ः क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑ ।
व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्य॑ः ॥

पदपाठः

यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒ऽस॒हः॒ । क्षय॑न्तम् । मानु॑षान् । अनु॑ ।
व॒यम् । ते । वः॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । स्याम॑ । इत् । ऋ॒तस्य॑ । र॒थ्यः॑ ॥

सायणभाष्यम्

हे राजानोराजमानाः हे चर्षणीसहः शत्रुभूतानामभिभवितारः आदित्याः यूयं मानुषाँअनु मनुष्यान्यजमानाननुलक्ष्य क्षयन्तं क्षपयन्तं कंचित्कमपि शत्रुं सर्वमपि शत्रुवर्गं अभिभवथेतिशेषः । यद्वा मनुष्येषु यजमानेषु क्षयन्तं स्तुतीनामीश्वरं कंचित्कमपिस्तोतारं मा यूयंगच्छत । हे वरुण हे मित्र हे अर्यमन् ते तादृशावयं वोयुष्माकं संबंधिनः ऋतस्य यज्ञस्य रथ्यः स्याम नेतारोभवेम ॥ ३५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५